Bhagavadgita 7-26, श्रीमद्भगवद्गीता ७-२६

श्लोकः
वेदाहं समतीतानि वर्तमानानि चार्जुन।
भविष्याणि च भूतानि मां तु वेद न कश्चन।।७-२६।।

सन्धि विग्रहः
वेद अहम् समतीतानि वर्तमानानि च अर्जुन।
भविष्याणि च भूतानि माम् तु वेद न कश्चन।।७-२६।।

श्लोकार्थः
हे अर्जुन! अहम् समतीतानि वर्तमानानि च भविष्याणि च
भूतानि वेद। कश्चन तु माम् न वेद।

शब्दार्थः
7.26. वेद=know अहम्=I समतीतानि=completely past वर्तमानानि=present च=and अर्जुन=O Arjuna भविष्याणि=future च=also भुतानि=all the living entities माम्=me तु=but वेद=knows न=not कश्चन=anyone

Meaning
7.26: I know, O Arjuna, all beings in the past, the present, and the future (those yet to come in the future). But no one knows me.

Bhagavadgita 7-25, श्रीमद्भगवद्गीता ७-२५

श्लोकः
नाहं प्रकाशः सर्वस्य योगमायासमावृतः।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम्।।७-२५।।

सन्धि विग्रहः
न अहम् प्रकाशः सर्वस्य योग-माया-समावृतः।
मूढः अयम् न अभिजानाति लोकः माम् अजम् अव्ययम्।।७-२५।।

श्लोकार्थः
योग-माया-समावृतः अहम् सर्वस्य प्रकाशः न।
अयम् मूढः लोकः अजम् अव्ययम् माम् न अभिजानाति।

शब्दार्थः
7.25 न=nor अहम्=I प्रकाशः=manifest सर्वस्य=to everyone योग-माया=by internal potency समावृतः=coveredमूढः=foolish अयम्=these न=not अभिजानाति=can understand लोकः=persons माम्=me अजम्=unbornअव्ययम्=inexhaustible

Meaning
7.25: I do not manifest to everyone, veiled by My Yoga-māyā. The foolish do not understand me as unborn and unchanging.

Bhagavadgita 7-24, श्रीमद्भगवद्गीता ७-२४

श्लोकः
अव्याक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः।
परं भावमजानन्तो ममाव्ययमनुत्तमम्।।७-२४।।

सन्धि विग्रहः
अव्यक्तम् व्यक्तिम् आपन्नम् मन्यन्ते माम् अबुद्धयः।
परम् भावम् अजानन्तः मम अव्ययम् अनुत्तमम्।।७-२४।।

श्लोकार्थः
मम परम् अव्ययम् अव्यक्तम् अनुत्तमम् भावम्
अजानन्तः अबुद्धयः माम् व्यक्तिम् आपन्नम् मन्यन्ते।

शब्दार्थः
7.24 अव्यक्तम्=non manifested व्यक्तिम्=personality आपन्नम्=achieved मन्यन्ते=think माम्=me अबुद्धयः=less intelligent persons परम्=supreme भावम्=existence अजानन्तः=without knowing मम=myअव्ययम्=imperishable अनुत्तमम्=the finest

Meaning
7.24: The unintelligent, who do not know me as the Highest, the Imperishable, and the Supreme, think of me as the Unmanifest becoming the manifest.

Bhagavadgita 7-23, श्रीमद्भगवद्गीता ७-२३

श्लोकः
अन्तवत् तु फलम् तेषाम् तत् भवति अल्प-मेधसाम्।
देवान् देव-यजः यान्ति मत् भक्तः यान्ति माम् अपि।।७-२३।।

सन्धि विग्रहः
अन्तवत् तु फलम् तेषाम् तत् भवति अल्प-मेधसाम्।
देवान् देव-यजः यान्ति मत् भक्ताः यान्ति माम् अपि।।७-२३।।

श्लोकार्थः
तेषाम् अल्प-मेधसाम् तत् फलम् तु अन्तवत् भवति;
देव-यजः देवान् यान्ति, मत् भक्ताः अपि माम् यान्ति।

शब्दार्थः
7.23 अन्तवत्=perishable तु=but फलम्=fruit तेषाम्=their तत्=that भवति=becomes अल्प-मेधसाम्=of those of small intelligence देवान्=to the demigods देव-यजः=the worshipers of the demogods यान्ति=go मत्=myभक्ताः=devotees यान्ति=go माम्=to me अपि=also

Meaning
7.23: Finite and limited is the fruit gained by these men of small intelligence (small minds). The worshippers of gods go to those gods, but my devotees come to Me.

Bhagavadgita 7-22, श्रीमद्भगवद्गीता ७-२२

श्लोकः
स तया श्रद्धया युक्तस्तस्याराधनमीहते।
लभते च ततः कामान्मयैव विहितान्हि तान्।।७-२२।।

सन्धि विग्रहः
सः तया श्रद्धया युक्तः तस्य अराधनम् ईहते।
लभते च ततः कामान् मया एव विहितान् हि तान्।।७-२२।।

श्लोकार्थः
सः तया श्रद्धया युक्तः तस्य आराधनम् ईहते, ततः च
मया एव विहितान् तान् कामान् लभते हि।

शब्दार्थः
7.22 सः=he तया=with that श्रद्धया=inspiration युक्तः=endowed तस्य=of that demigod अराधनम्=for the worship ईहते=he aspires लभते=obtains च=and ततः=from that कामान्=his desires मया=by me एव=aloneविहितान्=arranged हि=certainly तान्=those

Meaning
7.22: Endowed with that faith, he worships that god, and fulfills his desires, granted by Me alone.