Bhagavadgita 10-5, श्रीमद्भगवद्गीता १०-५

श्लोकः
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः।।१०-५।।

सन्धि विग्रहः
अहिंसा समता तुष्टिः तपः दानम् यशः अयशः।
भवन्ति भावाः भूतानाम् मत्तः एव पृथक्-विधाः।।१०-५।।

श्लोकार्थः
अहिंसा, समता, तुष्टिः, तपः, दानम्, यशः, अयशः,
(इमे) भूतानाम् पृथक्-विधाः भावाः मत्तः एव भवन्ति।

शब्दार्थः
10.5. अहिंसा=nonviolence समता=equilibrium तुष्टिः=satisfaction तपः=penanceदानम्=charity यशः=fame अयशः=infamy भवन्ति=come about भावाः=natures भूतानाम्=of living entities मत्तः=from me एव=certainly पृथक्-विधाः=variously arranged

Meaning
10.5: and ahimsa (nonviolence), equanimity, contentment, austerity, charity, fame and infamy: these different natures of living beings come from Me only.

Bhagavadgita 10-4, श्रीमद्भगवद्गीता १०-४

श्लोकः
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च।।१०-४।।

सन्धि विग्रहः
बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यम् दमः शमः।
सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च।।१०-४।।

श्लोकार्थः
बुद्धिः, ज्ञानम्, असम्मोहः, क्षमा, सत्यम्, दमः।
शमः, सुखम्, दुःखम्, भवः अभावः, भयम् च एव अभयम् च।

शब्दार्थः
10.4. बुद्धिः=intelligence ज्ञानम्=knowledge असम्मोहः=freedom from doubtक्षमा=forgiveness सत्यम्=truthfulness दमः=control of the senses शमः=control of the mind सुखम्=happiness दुःखम्=distress भवः=birth अभावः=death भयम्=fear च=alsoअभयम्=fearlessness एव=also च=and

Meaning
10.4: Intelligence, knowledge, freedom from delusion, patience, truth, self-restraint, calmness, happiness, sadness, birth, death, fear, fearlessness,

Bhagavadgita 10-3, श्रीमद्भगवद्गीता १०-३

श्लोकः
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।।१०-३।।

सन्धि विग्रहः
यः माम् अजम् अनादिम् च वेत्ति लोक-महेश्वरम्।
असम्मूढः सः मर्त्येषु सर्व-पापैः प्रमुच्यते।।१०-३।।

श्लोकार्थः
यः माम् अजम् अनादिम् लोक-महेश्वरम् च वेत्ति,
सः मर्त्येषु असम्मूढः (भूत्वा) सर्व-पापैः प्रमुच्यते।

शब्दार्थः
10.3. यः=anyone who माम्=me अजम्=unborn अनादिम्=without beginning च=also वेत्ति=knows लोक=of the planets महेश्वरम्=the supreme master असम्मूढः=undeludedसः=he मर्त्येषु=among those subject to death सर्व-पापैः=from all sinful reactionsप्रमुच्यते=is delivered

Meaning
10.3: He who knows Me as unborn, beginningless, and the Great Controller of the worlds, is undeluded among mortals and freed from all sins.

Bhagavadgita 10-2, श्रीमद्भगवद्गीता १०-२

श्लोकः
न मे विदुः सुरगणाः प्रभवं न महर्षयः।
अहमादिर्हि देवानां महर्षीणां च सर्वशः।।१०-२।।

सन्धि विग्रहः
न मे विदुः सुर-गणाः प्रभवम् न महर्षयः।
अहम् आदिः हि देवानाम् महर्षीणाम् च सर्वशः।।१०-२।।

श्लोकार्थः
सुर-गणाः मार्षयः च मे प्रभवम् न विदुः, अहम् हि
देवानाम् महर्षीणाम् (च) सर्वशः आदिः (अस्मि)।

शब्दार्थः
10.2. न=never मे=my विदुः=know सुर-गणाः=the demigods प्रभवम्=origin, opulencesन=never महर्षयः=great sages अहम्=I आदिः=the origin हि=certainly देवानाम्=of the demigods महर्षीणाम्=of the great sages च=also सर्वशः=in all respects

Meaning
10.2: Neither the bevy of gods, nor the great sages (Rishis) know My origin. I am also the origin of the gods and great rishis in every way.

Bhagavadgita 10-1, श्रीमद्भगवद्गीता १०-१

अथ दशमोऽध्यायः। विभूतियोगः।

श्लोकः
श्रीभगवानुवाच।
भूय एव महाबाहो शृणु मे परमं वचः।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।१०-१।।

सन्धि विग्रहः
भूयः एव महाबाहो शृणु मे परमम् वचः।
यत् ते अहम् प्रीयमाणाय वक्ष्यामि हित-काम्यया।।१०-१।।

श्लोकार्थः
हे महाबाहो! भूय एव मे परमम् वचः शृणु।
प्रीयमाणाय ते यत् अहम् हित-काम्यया वक्ष्यामि।

शब्दार्थः
10.1. भूयः=again एव=certainly महाबाहो=O mighty armed शृणु=just hear मे=Myपरमम्=supreme वचः=instruction यत्=that which ते=to you अहम्=I प्रीयमाणाय=thinking you dear to me वक्ष्यामि=say हित-काम्यया=for your benefit

Meaning
10.1: Sri Bhagavan said: O Mahā-bāho, hear again My supreme words, which I say to you for your good, for you are dear to Me.