आशा

Published on 29 October 2019 08:01 PM

[audio mp3='https://sanskrit.today/wp-content/uploads/2019/10/AshaLakshmiNarayana.mp3'][/audio]









भवेच्च देशः एष पुनरपि
विश्वे गुरुरिति आशा।
भवेच्च गीता जगति हि वन्द्या
शान्तिदात्रीति आशा॥





भवेच्च रामो जगदादर्शः
पुनः युवस्विति आशा।
भवेच्च कृष्णो जगति सुपूज्यः
सर्वजनैरिति आशा॥





भवेच्च धेनुस्सर्वसुमान्या
विश्वपूजयेति आशा।
भवाच्च वैदिकज्ञानश्रीः
भुवनप्रियेति आशा॥





भवेच्च योगो लोके मान्यः
धीवृद्धैरिति आशा।
भवेच्च पुनस्संस्कृतभाषा
जनभाषेति आशा॥





- लक्ष्मीनारायणः (हुब्बळ्ळि)