दीपावली पर्व

Published on 12 December 2019 05:37 PM
दीपावली पर्व!

अस्माकं भारतदेशः पर्वणां देशः विद्यते!

प्रतिवर्षम् अस्माकं देशे अनेके उत्सवाः मान्यन्ते !

तेषु उत्सवेषु दीपावली नाम उत्सवः प्रमुखः वर्तते!

अयम् उत्सवः कार्तिकमासस्य कृष्णपक्षस्य अमावस्यां तिथौ मान्यते!

कथ्यते यत् पुराकाले अयोध्यायाः राजा दशरथः आसीत्! तस्य पुत्रः श्रीरामः चतुर्दशवर्षाणि यावत् वने अवसत्!

लङ्काधिपति रावणः मातरं सीताम् (भगवतः रामस्य पत्नीम्) अपाहरत् !

भगवान् श्रीरामचन्द्रः रावणं हत्वा सीतां रावणस्य कारागारात् उद्धरितवान् आसीत्!

अस्मिन्नेव दिने भगवान् श्रीरामचन्द्रः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत्!

तेषां स्वागतार्थं अयोध्यावासिनः हर्षं प्रदर्शयन् ते निजगृहान् दीपैः अलङ्करणैश्च सुशोभितवन्तः आसन्!

तस्य उत्सवस्य स्मृतौ वयं अद्यापि एनम् उत्सवं मन्यामहे!

जनाः अस्मिन् अवसरे गृहान् सुधया लिम्पन्ति, चित्रैः गृहान् सज्जीकुर्वन्ति दीपान् च प्रज्वालयन्ति!

अस्मिन् उत्सवे सर्वे नवीनानि वस्त्राणि धारयन्ति, रात्रौ च जनाः लक्ष्मीपूजनं कुर्वन्ति!

जनाः मिष्टान्नानि खादन्ति, परस्परं प्रतिवेशिनां मित्राणां च मध्ये प्रसादं वितरन्ति!

परन्तु अस्मिन् पर्वणि पश्चिमबङ्गराज्यस्य जनाः तथा च भारतस्य उत्तरपूर्वराज्येषु स्थिताः जनाः अस्याम् अमावास्यायां तिथौ रात्रौ मातुः कालेः पूजां कुर्वन्ति!

वयं असमस्थाः सर्वे अपि मन्दिरेषु मातुः कालेः पूजां कुर्मः! अस्मिन् अवसरे केषुचित् मन्दिरेषु समस्तरात्रौ नाटकानि अपि भवन्ति!

🌹🌹

-प्रदीपः!!