दुग्धं विशुद्धम्

Published on 27 December 2019 07:32 PM
ग्राहकः - भवान् निश्चित्तवान् किम्, एतत् दुग्धं विशुद्धम् इति ?

दुग्ध विक्रेता - आम्, महोदय ! न केवलं दुग्धांशः एव, अपितु अत्र मिश्रितं जलम् अपि पूर्णतः विशुद्धमस्ति, चिन्ता न कार्या, महाशय ! 😄

-- नारदः ।