धेनुसम्बद्धः लेखः

Published on 9 January 2020 07:48 AM
शिक्षकः - माधव ! त्वया लिखितः धेनुसम्बद्धः लेखः वर्षत्रयात् पूर्वं तव भगिन्या लिखितस्य समानः एव दृश्यते, किमर्थं तत् चोरितवान् ?

माधवः- न महाशय ! अस्माकं धेनुः एका एव, या च इदानीमपि अस्मद्गृहे पूर्ववदेव अस्ति, इत्यतः आवयोः लेखः अपि समानः एव जातः ।