नरकस्य विषये किञ्चिद् ज्ञातव्यम्

Published on 12 December 2019 08:01 AM
नरकस्य विषये किञ्चिद् ज्ञातव्यम्!

१) नरकाः सहस्रकोटिशः सन्ति परन्तु भागवते केवलं अष्टादश नरकाणाम् उल्लेखः प्राप्यते।

अवशिष्टाः सर्वे तेषां शाखाः प्रशाखाः भवन्ति।

२) नरकाः पृथिव्याः अधः दक्षिणदिशायाः पृष्ठभागे अवस्थिताः सन्ति।

३) यः मनुष्यः पापस्य प्रायश्चित्तं करोति सः पापस्य फलं न भुङ्क्ते। परन्तु यः पापस्य प्रायश्चित्तं न करोति सः निश्चयेन पापस्य फलं भुङ्क्ते।

४) पापम् इत्युक्ते धर्मशास्त्रस्य विरुद्धाचरणम्।

५) आचरणम् अर्थात्.....

विवाहः, भोजनम्, शयनम्, जागरणम्, वस्त्रम्, सन्तानोत्पत्तिः , वर्णाश्रमः , च धर्मस्य पालनम् इत्यादयः।

कर्म धर्मशास्त्राणां च मनुस्मृतेः अनुशासनानुगुणं हि कुर्यात् अन्यथा पापम् एव भवति।

६) मनः एकस्मिन् एव विषये एकमेव निर्णयं न करोति, क्षणेभ्योऽन्तरे तस्य परिवर्तनं भवति। यथार्थं निर्णयं न भवति तदर्थमेव शास्त्रोक्तनियमानुगुणंम् एव चलनीयम्।

७) शास्त्रं धर्मसंविधानम् एव तदर्थं धार्मिके निर्णये धर्मशास्त्रस्य प्राधान्यं भवेत् न तु भारतीय-संविधानम्।

-प्रदीपः!