एकदा एकः महाराजः कुत्रचित् गमनाय नौकाम् आरुढवान् आसीत्। तेन सह तस्य एकः शुनकः अपि आसीत्।

नौकायां बहवः यात्रिकाः आसन् अपिच तैः सह नौकायाम् एकः दार्शनिकः अपि आसीत्।

शुनकः कदापि नौकां न आरुढवान् अतः सः नौकायाः उपरि इतस्ततः कूर्दनं करोति स्म।

शुनकस्य एवम् आचरणं दृष्ट्वा नाविकः अपि चिन्तितः अभवत् यद् एतेन कुतश्चित् नौका जले न निमज्जेत् जनाः च न म्रियेरन् इति।

शुनकस्य एतद् आचरणं दृष्ट्वा असहमानः दार्शनिकः महाराजस्य समीपम् आगत्य उक्तवान् हे महाराज! भवान् मह्यम् अनुमतिं ददति चेत् अहं तस्य शुनकस्य चिकित्सां करोमि, पुनः च सः एवम् आचरणं नैव करिष्यति इति।

महाराजः तदा तस्मै अनुमतिं दत्तवान् यत् सः दार्शनिकः एव तस्य चिकित्सां करोतु इति।

तदनन्तरं सः दार्शनिकः तं शुनकं गृहीत्वा जले क्षिप्तवान्।

यदा तं जले क्षिप्तवान् तदा कथञ्चित् सः शुनकः तरणं कृत्वा नौकायाः स्तम्भं गृहीतवान्। एवमेव किञ्चित् कालपर्यन्तं सः जले आसीत्।

पुनः सः दार्शनिकः तं जलात् उत्थाप्य नौकायां स्थापितवान्।

तदा शुनकः नौकायाः एकस्मिन् कोणे तूष्णीम् एव उपविशन् आसीत्।

इदानीं तस्य आचरणं दृष्ट्वा सर्वे अपि विस्मिताः अभवन् यत् कथं तस्य स्वभावस्य परिवर्तनम् अभवत् इति।

-प्रदीपः!