भिक्षायाचनम्

Published on 19 July 2020 08:35 AM

एकः पथिकः भिक्षुकम् उक्तवान् भोः! भवान् किमर्थं भिक्षां याचते? भिक्षायाचनं उत्तमकार्यं नास्ति अतः एतत् त्यजतु।





भिक्षुकः- (पथिकम् उद्दिश्य) भवान् कदापि कमपि भिक्षां याचितवान् वा?





पथिकः- नैव, अहं कदापि भिक्षां न याचितवान्।





भिक्षुकः- तर्हि भवान् कथं वक्तुं शक्नोति यत् एतत् कार्यं उत्तमकार्यं नास्ति इति।

-प्रदीपः!