-केचन मननयोग्याः विषयाः-

१. सकामभावेन किमपि प्राप्त्यर्थं वा भगवतः भक्तिः साध्यते चेत् तावत्तु भगवान् भक्ताय ददाति एव। परन्तु निस्स्वार्थतया भक्तिः साध्येत चेत् तस्मै भगवान् तावत् दद्यात् यावत् सः निर्वोढुं न शक्नुयात्।

२. यस्मै यत् रोचते तत् भगवान् न ददाति यदि तस्य हिताय न भवेत्। हिताय भवेत् चेत् अरोचते चेदपि तस्मै तत् दद्यादेव।

३. जगति मनुष्यस्य अन्यः न कोsपि सहायकः धर्मात् ऋते।

४. जीवने धर्मः एव सम्पादनीयः। यत्र धर्मः तत्रैव प्रगतिः, शान्तिश्च।

५. अज्ञानमेव सर्वविपत्तेः कारणम्। ज्ञानप्राप्तेः अनन्तरं तत्सर्वं विनश्यति यथा सूर्यस्य विद्यमाने अन्धकारः।

६. दुरभिमानः मानवं दुःखगर्ते पातयति। परन्तु स्वाभिमानः गर्तात् तम् उद्धरति।

७. विना साधनां कस्यापि किमपि न सिद्ध्येत्। श्रमहीनं जीवनं निरर्थकम्।

८. अध्यावसायः निरालस्य च जीवनविकासस्य मुख्याधारः।

९. अत्र पुण्यमेव अर्जनीयम्, न वा पापम्। पुण्यम् अतिसुखकरं जीवनपाथेयञ्च । परन्तु पापं यातनामयं नरकञ्च। जीवने पापपुण्ययोः फलम् अवश्यं भोक्तव्यम् इति शास्त्रमतम्। इति, शम् !