एकदा रात्रौ बिमलः शयनं कर्तुं स्वप्रकोष्टं गतवान्।
तदा एव एकः मशकः आगत्य तं दंशितवान्।

तदा सः कुपितः सन् तं मशकं हन्तुम् उद्यतः अभवत्। अपिच सः हस्ते पादुकामेकां गृहीत्वा तस्य मशकस्य पृष्ठतः धावन् आसीत्।

समस्तरात्रौ सः मशकं हन्तुं प्रचेष्टां कृतवान्, एवमेव प्रातःकालः अभवत् परन्तु सः तं मशकं हन्तुं न शक्तवान्। सः रात्रौ निद्राम् एव न कृतवान्।

प्रातःकाले सः चिन्तितवान् यत् तं मशकं तु अहं हन्तुं न शक्तवान् परन्तु तस्मै अहं निद्रां कर्तुं न दत्तवान् इत्येव मम प्रसन्नता वर्तते।
प्रदीपः!