रात्रौ चौर्यम्

Published on 23 December 2019 03:06 PM
प्रतिवेशिनः गृहे ह्यः रात्रौ चौर्यम् अभवत्।

चोरः अपि आरक्षकैः गृहीतः।

आरक्षकः (चोरम् उद्दिश्य) त्वया किमर्थं चौरकार्यं कृतम्?

चोरः- श्रीमन्! ते गृहे न आसन् इति मत्वा अहं चौरकार्यं कृतवान्।

आरक्षकः-ते गृहे न आसन् इति त्वया कथं ज्ञातम्?

चोरः- श्रीमन्! ते प्रतिदिनं तेषां गृहस्य पुरतः आर्द्राणि वस्त्राणि शुष्कयितुं प्रसारयन्ति स्म।

परन्तु गत-त्रिभ्यो दिनेभ्यः ते वस्त्राणि शुष्कयितुं न प्रसारयन्ति।

गृहस्वामिनम् उद्दिश्य आरक्षकः पृष्टवान्- किम् एतत् सत्यम्?

गृहस्वामी - आम्, श्रीमन्! एषु दिनेषु शैत्यम् अधिकं वर्तते। तत्कारणतः वयं त्रिभ्यो दिनेभ्यः स्नानम् एव न कृतवन्तः स्मः। अतः वस्त्राणि कथं शुष्कयितुं प्रसारयामः?

ज्ञातव्यम् अस्ति यद् अस्मिन् शीतकाले यदि कस्यापि गृहस्य द्वारं पिहितं दृश्यते तर्हि जानीयुः यत् ते गृहे एव सन्ति। शैत्यम् अधिकम् इति कारणात् ते बहिः न आगच्छन्ति स्नानम् अपि न कुर्वन्ति इति।।

प्रदीपः!