रावणस्य विषयः

Published on 12 December 2019 05:27 PM
सामाजिक-सञ्चार-माध्यमेन केचन जनाः रावणस्य विषये मिथ्या प्रचारं कुर्वन्ति!

रावणः महान् पण्डितः आसीत्!

आम्, सत्यम्! सः पण्डितः आसीत्!

सः कदापि बलात् मातुः सीतायाः स्पर्शं न अकरोत्!

इतोऽपि सत्यम्!

स्वस्य भगिन्याः अपमानाय सः तस्य समस्तकूलम् अपि नाशयितुं संकोचं न कृतवान् आसीत्!

आम्, एतदपि सत्यमेव!

इदानीं सत्यं किम् इति जानन्तु!

मातरं सीतां सः रावणः बलात् किमर्थं स्पर्शं न अकरोत् कारणम्...

कुबेरपुत्र-नकुलबेरेण सः शापितः आसीत् यत् कामपि स्त्रीं तस्याः मतं विना स्पर्शं करोति चेत् तस्य रावणस्य मृत्युः भविष्यति इति!

कदाचित् केचन तु कथां श्रावयन्ति यत् काचिद् माता तस्याः पुत्रीं पृच्छति यत् तव भ्राता कथम् भवेत् इति!

सा पुत्री कथयति रावणः इव मम भ्राता भवेत् यः स्वस्य भगिन्याः कृते सर्वमपि त्यागे सङ्कोचं न करोति इति!

वस्तुतः तद् नास्ति किमपि!

रावणस्य भगिन्याः सूर्पणखायाः पत्युः नाम विद्युतजिव्हः आसीत्!

यः राज्ञः कावकेयस्य सेनापतिः आसीत्!

यदा रावणः त्रिषु लोकेषु विजयं प्राप्त्यार्थं युद्धं कर्तुं गतवान् आसीत् तदा राज्ञा कालकेयेन सह अपि युद्धम् अभवत्! तस्मिन् युद्धे विद्युतजिह्वः मृतः अभवत्!

अर्थात् रावणः तं हतवान् आसीत्!

तदा एव सूर्पणखा तस्याः भ्रातरं रावणं शापं दत्तवती आसीत् यत् अहमेव तव मृत्योः कारणं भविष्यामि इति!

पुनः केचन वदन्ति रावणः अजेयः आसीत्!

एतदपि न सत्यम्!

पश्यन्तु रावणः कैः सह युद्धे पराजितः अभवत्!!

भगवन्तं रामं विहाय सः राज्ञा बलिना सह पराजितः अभवत्, वानरराज्ञा बालिना सह, महिष्मतेः राज्ञा कार्तवीर्य-अर्जुनेन सह च स्वयं भगवान् शिवः अपि तं रावणं युद्धे पराजितम् अकरोत्!

रावणः अवश्यं ज्ञानी आसीत् परन्तु तद् ज्ञानं सः उचिते काले यथार्थप्रयोगं न अकरोत् तस्मात् एव कारणात् तस्य कूलस्य नाशः अभवत्!

रावणः बहून् ऋषि-मुनीन् हतवान् आसीत्! यज्ञाः नष्टाः कृताः आसीत्! स्त्रीणाम् उपरि अत्याचारः कृतः!

अतः आवश्यकम् अस्ति यत् अस्माकं हृदयेषु रामः भवेत्, तस्य चिन्ता करणीया!

रावणस्य पुत्तलं दहाम चेत् सः न म्रियते !

-प्रदीपः!!