।।श्रीमते रामानुजाय नमः।।

सभासमानासहसापरागात्

सभासमाना सहसा परागात् ।

सभासमाना सहसापरागात्

सभासमाना सहसापरागात् ॥

–चित्रकाव्यम्

अयं श्लोकः चतुर्भिः पदैः भागैः वा रचितः अस्ति । प्रत्येकस्मिन् पादे उपयुक्ताः वर्णाःतेषाम् अनुक्रमणीका च भवति समाना । तेषां पदानां पदविभागः संयोजनं वा विभिन्नतया कृतम् इत्यतः विभिन्नानि पदानि अर्थाश्च सम्पद्यन्ते ।

भासः कान्तिः, मानश्चित्तसमुन्नतिः पूजा वा, आसः शत्रुविधूननम् , हसः स्मेरता, एतैः सह वर्तते इति सभासमानासहसा यतोऽपरागं चित्तकालुष्यमत्ति । भासमानैः शोभमानैः सह वर्तते सभासमाना । सहसा मार्गशीर्षेण हेतुना प्रावृड्विच्छेदप्रादुर्भूतान् परागान् रजःकणानतति प्राप्नोतीति परागात् । भा कान्तिस्तया समाना सरूपास्तैः सह वर्तत इति सभासमाना । षोऽन्तकर्मणि । स्यन्ति परानिति साः, तैः सह वर्तत इति सहसा । एवं भूता असमाना अनुपमा सभा जनसमवायोऽपरागादपरस्मात्पर्वतात् सहसा शीघ्रं परागात्परागतेति ॥

पदार्थान्वयः


सभा मान-आसः – हस (एतैः सह वर्तत इति)

सभा समानासहसा, (यतः) अपरागम् अस्ति

सभासमाना (भासमानैः सह वर्तत इति) सहसा (मार्गशीर्षेण हेतुना) परागात् (रजः कणात्) अतति (प्राप्नोति – परागात्)

भा (कान्तिः) समाना (सरूपाः, तैः सह वर्तते) सभासमाना। (स्यन्ति परान् ) इति साः, तैः सह वर्तत इति) सहसा । अपरागात् (अपरस्मात् पर्वतात्)

एवं भूता असमाना – सभा – सहसा – परागात् (परागता)।

विभक्तुम् अशक्येन बन्धेन युक्ता जनसभा तस्मात् पर्वतात् वेगेन दूरङ्गता । इयं सभा कान्त्या शोभमाना, अभिमानयुता, आमोदयुता, अरिसंहरणे कृतसङ्कल्पा च आसीत् । विद्वद्भिः शोभमाना च वर्तते स्म । मार्गशीर्षमासः इत्यतः वातावरणं धूल्या युक्तमासीत् । समानकान्त्या युतैः अरिसंहारकैः शोभायमानां सभां प्रति उत्साहेन आगच्छतां जनानां कारणतः उत्पन्ना सा धूलिः ।

–रमेशप्रसाद शुक्ल

–जय श्रीमन्नारायण।