हसेम हासयेम

Published on 18 July 2020 08:19 PM

हसेम हासयेम





माता हे पुत्र ।पूजार्थं फलमानयतु।

पुत्र: अस्तु।

माता धनं स्वीकृत्य गच्छतु।

पुत्र: कति फलानि आनयानि?

माता फलद्वयं क्रीत्वा आनयतु्।

पुत्र: आपणं गत्वा फलद्वयं क्रीत्वा गहं प्रति आगच्छति। मार्गे एकं खादित्वा एकफलं एक आनयति।

पुत्र: मात: फलं स्वीकरोतु।

माता एकमेव अस्ति।द्वितीयफलम्?

पुत्र: तदेव एतत्।

माता रे सम्यक् वदतु।एकफलं अत्र।द्वितीयं कुत्र?

पुत्र: अंबा एतदेव तद्।

कतिवारं वा पृच्छतु।चिन्ता नास्ति।तदेव एतत्।