अवनितलं पुनरवतीर्णा स्यात्

Published on 14 January 2020 08:06 PM





अवनितलं पुनरवतीर्णा स्यात्
संस्कृतगङ्गाधारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धाराः॥





निपततु पण्डितहहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहताज्जनमनसि
पुत्रसहस्रं समुद्धृतं स्यात्
यान्तु च जन्मविकारः॥ धीरभगीरथ …॥





ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत
एवं सन्ति विचारः॥ धीरभगीरथ …॥





या माता संस्कृतिमूला
यस्या व्याप्तिस्सुविशाला
वाङ्मयरूपाा सा भवतु
लसतु चिरं सा वाङ्माला
सुरवाणीं जनवाणीं कर्तुं
यतामहे कृतिशूराः॥ धीरभगीरथ …॥





डा. नाराायणभट्टः