श्लोकः
सर्वमेतदृतं मन्ये यन्मां वदसि केशव।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः।।१०-१४।।

सन्धि विग्रहः
सर्वम् एतत् ऋतम् मन्ये यत् माम् वदसि केशव।
न हि ते भगवन् व्यक्तिम् विदुः देवाः न दानवाः।।१०-१४।।

श्लोकार्थः
हे केशव! यत् माम् (त्वं) वदसि, (तत्) एतत् सर्वम्
(अहं) ऋतम् मन्ये। हे भगवन्! न देवाः न दानवाः
(वा) ते व्यक्तिम् हि विदुः।

शब्दार्थः
10.14. सर्वम्=all एतत्=this ऋतम्=truth मन्ये=I accept यत्=which माम्=unto me वदसि=you tell केशव=O Krishna न=never हि=certainly ते=your भगवन्=O Personality of Godheadव्यक्तिम्=revelation विदुः=can know देवाः=the demigods न=nor दानवाः=the demons

Meaning
10.14: I hold all that you told me as true, O Kesava (Krishna) ed-nederland.com/. Neither the gods nor the demons know your manifestation, O Bhagavan (Lord).