श्लोकः
विस्तरेणात्मनो योगं विभूतिं च जनार्दन।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्।।१०-१८।।

सन्धि विग्रहः
विस्तरेण आत्मनः योगं विभूतिम् च जनार्दन।
भूयः कथय तृप्तिः हि शृण्वतः न अस्ति मे अमृतम्।।१०-१८।।

श्लोकार्थः
हे जनार्दन! आत्मनः योगम् विभूतिम् च भूयः विस्तरेण कथय।
(एतत्) अमृतम् शृण्वतः हि मे तृप्तिः न अस्ति।

शब्दार्थः
10.18. विस्तरेण=in detail आत्मनः=your योगं=mystic power विभूतिम्=opulences च=alsoजनार्दन=O killer of the atheists भूयः=again कथय=describe तृप्तिः=satisfaction हि=certainly शृण्वतः=hearing न अस्ति=there is not मे=my अमृतम्=nectar

Meaning
10.18: O Janardhana (Krishna) tell me again in detail your yogam and vibhutim (power of yoga and manifestations). There is no satiation or satisfaction in me in hearing your nectar-like words.