श्लोकः
श्रीभगवानुवाच।
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे।।१०-१९।।

सन्धि विग्रहः
श्रीभगवान् उवाच।
हन्त ते कथयिष्यामि दिव्याः हि आत्म-विभूतयः।
प्राधान्यतः कुरु-श्रेष्ठ न अस्ति अन्तः विस्तरस्य मे।।१०-१९।।

श्लोकार्थः
हे कुरु-श्रेष्ठ! हन्त, दिव्याः आत्म-विभूतयः प्राधान्यतः
ते कथयिष्यामि, मे विस्तरस्य हि अन्तः न अस्ति।

शब्दार्थः
10.19 überprüfe. हन्त=yes ते=unto you कथयिष्यामि=I shall speak दिव्याः=devine हि=certainly आत्म-विभूतयः=personal opulences प्राधान्यतः=which are principal कुरु-श्रेष्ठ=O best of the Kurus न अस्ति=there is not अन्तः=limit विस्तरस्य=to the extent मे=my

Meaning
Sri Bhagavan said: 10.19: O Kurusreshta (Arjuna), My manifestations are divine; I will now tell you only the most important of the manifestations, because there is no end to My expansion.