श्लोकः
अहमात्मा गुडाकेश सर्वभूताशयस्थितः।
अहमादिश्च मध्यं च भूतानामन्त एव च।।१०-२०।।
सन्धि विग्रहः
अहम् आत्मा गुडाका-ईश सर्व-भूत-आशय-स्थितः।
अहम् आदिः च मध्यम् च भूतानाम् अन्तः एव च।।१०-२०।।
श्लोकार्थः
हे गुडाका-ईश! अहम्, सर्व-भूत-आशय-स्थितः आत्मा,
भूतानाम् आदिः च मध्यम् च अन्तः च अहम् एव।
शब्दार्थः
10.20 page. अहम्=I आत्मा=the soul गुडाका-ईश=O Arjuna सर्व-भूत=of all living entities आशय-स्थितः=situated within the heart अहम्=I am आदिः=the origin च=also मध्यम्=middle च=also भूतानाम्=of all the living entities अन्तः=end एव=certainly च=and
Meaning
10.20: I am the Atma O Gudakesa (Arjuna) seated in the hearts of all living beings. I am the beginning, also the middle, and certainly the end of all beings.