श्लोकः
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः।।१०-२६।।

सन्धि विग्रहः
अश्वत्थः सर्व-वृक्षाणाम् देवर्षीणाम् च नारदः।
गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलः मुनिः।।१०-२६।।

श्लोकार्थः
सर्व-वृक्षाणाम् अश्वत्थः, देवर्षीणाम् च नारदः,
गन्धर्वाणाम् चित्ररथः, सिद्धानाम् कपिलः मुनिः (अहं अस्मि)।

शब्दार्थः
10.26. अश्वत्थः=the banyan tree सर्व-वृक्षाणाम्=of all trees देवर्षीणाम्=of all the sages amongst the demigods च=and नारदः=Narada गन्धर्वाणाम्=of the citizens of the Gandharva planet चित्ररथः=Citraratha सिद्धानाम्=of all those who are perfected कपिलः मुनिः=Kapila Muni

Meaning
10.26: Of all trees, I am Asvattah. Of all the divine Rishis, I am Narada. I am Chitraratha among Gandharvas. Of all perfected beings, I am Kapila Muni.