श्लोकः
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।।१०-३।।

सन्धि विग्रहः
यः माम् अजम् अनादिम् च वेत्ति लोक-महेश्वरम्।
असम्मूढः सः मर्त्येषु सर्व-पापैः प्रमुच्यते।।१०-३।।

श्लोकार्थः
यः माम् अजम् अनादिम् लोक-महेश्वरम् च वेत्ति,
सः मर्त्येषु असम्मूढः (भूत्वा) सर्व-पापैः प्रमुच्यते।

शब्दार्थः
10.3. यः=anyone who माम्=me अजम्=unborn अनादिम्=without beginning च=also वेत्ति=knows लोक=of the planets महेश्वरम्=the supreme master असम्मूढः=undeludedसः=he मर्त्येषु=among those subject to death सर्व-पापैः=from all sinful reactionsप्रमुच्यते=is delivered

Meaning
10.3: He who knows Me as unborn, beginningless, and the Great Controller of the worlds, is undeluded among mortals and freed from all sins.