श्लोकः
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।
मृगाणां च मृकेन्द्रोऽहं वैनतेयश्च पक्षिणाम्।।१०-३०।।

सन्धि विग्रहः
प्रह्लादः च अस्मि दैत्यनाम् कालः कलयताम् अहम्।
मृगाणाम् च मृगेन्द्रः अहम् वैनतेयः च पक्षिणाम्।।१०-३०।।

श्लोकार्थः
दैत्यानाम् प्रह्लादः, कलयताम् कालः च अहम् अस्मि,
मृगाणाम् मृगेन्द्रः च, पक्षिणाम् वैनतेयः च अहम् (अस्मि)।

शब्दार्थः
10.30. प्रह्लादः=Prahlada च=also अस्मि=I am दैत्यनाम्=of the demons कालः=time कलयताम्=of subduers अहम्=I am मृगाणाम्=of animals च=and मृगेन्द्रः=the lion अहम्=I am वैनतेयः=Garuda च=also पक्षिणाम्=of birds

Meaning
10.30: Of daityas, I am Prahalada. I am Time among timekeepers. Of animals, I am the king of beasts (the lion). I am also Garuda (son of Vinata) among the birds.