श्लोकः
पवनः पवतामस्मि रामः शस्त्रभृतामहम्।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी।।१०-३१।।

सन्धि विग्रहः
पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम्।
झषाणाम् मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी।।१०-३१।।

श्लोकार्थः
पवताम् पवनः अस्मि, शस्त्र-भृताम् च रामः अहम् (अस्मि),
झषाणाम् मकरः अस्मि, स्रोतसाम् जाह्नवी च (अहं) अस्मि।

शब्दार्थः
10.31. पवनः=the wind पवताम्=of all that purifies अस्मि=I am रामः=Rama शस्त्र-भृताम्=of the carriers of weapon अहम्=I am झषाणाम्=of all fish मकरः=the shark च=also अस्मि=I am स्रोतसाम्=of flowing rivers अस्मि=I am जाह्नवी=the river ganges

Meaning
10.31: Of all the purifiers, I am the wind. Of warriors, I am Rama. Of fish, I am Makara (Marine Monster, Crocodile or Shark). Of the rivers, I am the River Ganga.