श्लोकः
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२॥

सन्धि विग्रहः
सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन ।
अध्यात्म-विद्या विद्यानाम् वादः प्रवदताम् अहम् ॥ १०-३२॥

श्लोकार्थः
हे अर्जुन! सर्गाणाम् आदिः मध्यम् च अन्तः च एव अहम्
(अस्मि), विद्यानाम् अध्यात्म-विद्या, प्रवदताम् वादः अहम् (अस्मि)।

शब्दार्थः
10.32. सर्गाणां  = of all creations आदिः = the beginning अन्तः = end च  = and मध्यं  = middle च  = also एव  = certainly अहं  = I am अर्जुन  = O Arjuna अध्यात्मविद्या  = spiritual knowledge विद्यानां  = of all education वादः  = the natural conclusion प्रवदतां  = of arguments अहं  = I am.

Meaning
10.32: Of all creations, I am the beginning, the end, and the middle. O Arjuna, of sciences (I am) the science of self (Universal and individual). Of those who argue, I am the right argument.