श्लोकः
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७॥

सन्धि विग्रहः
वृष्णीनाम् वासुदेवः अस्मि पाण्डवानाम् धनञ्जयः ।
मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः ॥ १०-३७॥

श्लोकार्थः
वृष्णीनाम् वासुदेवः, पाण्डवानाम् धनञ्जयः अस्मि,
मुनीनाम् अपि व्यासः (अहं), कवीनाम् उशना कविः (अहं अस्मि)।

शब्दार्थः
10.37. वृष्णीनां  = of the descendants of VRiShNi वासुदेवः  = KRiShNa in Dvaraka अस्मि  = I am पाण्डवानां  = of the Pandavas धनञ्जयः  = Arjuna मुनीनां  = of the sages अपि  = also अहं  = I am व्यासः  = Vyasa, the compiler of all Vedic literature कवीनां  = of all great thinkers उशना  = Usana कविः  = the thinker.

Meaning
10.37: Of the Vrsnis, I am Vasudeva; of the Pandavas (I am) Dhananjaya (Arjuna); of the Munis, I am Vyasa; of the poets, I am poet Usana (Sukracharya). .

%d bloggers like this: