श्लोकः
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०-३९॥

सन्धि विग्रहः
यत् च अपि सर्व-भूतानाम् बीजम् तत् अहम् अर्जुन ।
न तत् अस्ति विना यत् स्यात् मया भूतम् चर-अचरम् ॥ १०-३९॥

श्लोकार्थः
हे अर्जुन! च सर्व-भूतानाम् यत् बीजम् तत् अपि अहम् (अस्मि),
यत् चर-अचरम् भूतम् स्यात् तत् मया विना न अस्ति ।

शब्दार्थः
10.39. यत्  = whatever च  = also अपि  = may be सर्वभूतानां  = of all creations बीजं  = seed तत्  = that अहं  = I am अर्जुन  = O Arjuna न  = not तत्  = that अस्ति  = there is विना  = without यत्  = which स्यात्  = exists मया  = Me भूतं  = created being चराचरं  = moving and nonmoving.

Meaning
10.39: Whosoever may be the seed of all existence (living beings), that I am, O Arjuna; there is no being or entity (Bhūtam), moving or unmoving that exists without Me.