श्लोकः
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२॥

सन्धि विग्रहः
अथवा बहुना एतेन किम् ज्ञातेन तव अर्जुन ।
विष्टभ्य अहम् इदम् कृत्स्नम् एक-अंशेन स्थितः जगत् ॥ १०-४२॥

श्लोकार्थः
हे अर्जुन! अथवा एतेन बहुना ज्ञातेन तव किम्? अहम्
इदम् कृत्स्नम् जगत् एक-अंशेन विष्टभ्य स्थितः (अस्मि इति त्वं विद्धि) ।

शब्दार्थः
10.42. अथवा  = or बहुना  = many एतेन  = by this kind किं  = what ज्ञातेन  = by knowing तव  = your अर्जुन  = O Arjuna विष्टभ्य  = pervading अहं  = I इदं  = this कृत्स्नं  = entire एक  = by one अंशेन  = part स्थिताः  = am situated जगत्  = universe.

Meaning
10.42: What benefit do you gain from surfeit of this knowledge, O Arjuna? I support this entire universe with a fraction of My energy or Myself.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥