अथैकादशोऽध्यायः ।   विश्वरूपदर्शनयोगः ।

श्लोकः
अर्जुन उवाच ।
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११-१॥

सन्धि विग्रहः
मत् अनुग्रहाय परमम् गुह्यम् अध्यात्म-संज्ञितम् ।
यत् त्वया उक्तम् वचः तेन मोहः अयम् विगतः मम ॥ ११-१॥

श्लोकार्थः
त्वया मत् अनुग्रहाय अध्यात्म-संज्ञितम् यत् परमम्
गुह्यम् वचः उक्तम्, तेन मम अयम् मोहः विगतः ।

शब्दार्थः
अर्जुन उवाच  = Arjuna said मदनुग्रहाय  = just to show me favor परमं  = supreme गुह्यं  = confidential subject अध्यात्म  = spiritual संज्ञितं  = in the matter of यत्  = what त्वया  = by You उक्तं  = said वचः  = words तेन  = by that मोहः  = illusion अयं  = this विगतः  = is removed मम  = my.

Meaning
11.1: Arjuna said: As a favor to me, You instructed me in matters of supreme secret and spiritual Self. By what you said and by such words, my delusion is removed.