श्लोकः
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११-११॥

सन्धि विग्रहः
दिव्य-माल्य-अम्बर-धरम् दिव्य-गन्ध-अनुलेपनम् ।
सर्व-आश्चर्यमयम् देवम् अनन्तम् विश्वतोमुखम् ॥ ११-११॥

श्लोकार्थः
दिव्य-माल्य-अम्बर-धरम्, दिव्य-गन्ध-अनुलेपनम्,
सर्व-आश्चर्यमयम्, अनन्तम्, विश्वतोमुखम्
देवम् (अर्जुनः अपश्यत्) ।

शब्दार्थः
दिव्य  = divine माल्य  = garlands अम्बर  = dresses धरं  = wearing दिव्य  = divine गन्ध  = fragrances अनुलेपनं  = smeared with सर्व  = all आश्चर्यमयं  = wonderful देवं  = shining अनन्तं  = unlimited विश्वतोमुखं  = all-pervading.

Meaning
11.11: Wearing Divine garlands and garments smeared with Divine perfumes, all uncommonly wonderful, resplendent, boundless God facing all sides.