श्लोकः
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ११-१२॥

सन्धि विग्रहः
दिवि सूर्य-सहस्रस्य भवेत् युगपत् उत्थिता ।
यदि भाः सदृशी सा स्यात् भासः तस्य महात्मनः ॥ ११-१२॥

श्लोकार्थः
यदि दिवि सूर्य-सहस्रस्य भाः युगपत् उत्थिता भवेत्,
(तर्हि) सा तस्य महात्मनः भासः सदृशी स्यात् ।

शब्दार्थः
दिवि  = in the sky सूर्य  = of suns सहस्रस्य  = of many thousands भवेत्  = there were युगपत्  = simultaneously उत्थिता  = present यदि  = if भाः  = light सदृशी  = like that स  = that स्यात्  = might be भासः  = effulgence तस्य  = of Him महात्मनः  = the great Lord.

Meaning
11.12: If a thousand suns were to rise and shine forth all at once in the sky, it could be possible that their effulgence might equal the splendor of the Great or Exalted Being.