श्लोकः
अर्जुन उवाच ।
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ११-१५॥

सन्धि विग्रहः
पश्यामि देवान् तव देव देहे सर्वान् तथा भूत-विशेष-सङ्घान् ।
ब्रह्माणम् ईशम् कमल-आसनस्थं ऋषीन् च सर्वान् उरगान् च दिव्यान् ॥ ११-१५॥

श्लोकार्थः
हे देव! (अहं) तव देहे सर्वान् देवान्, तथा
भूत-विशेष-सङ्घान्, कमल-आसनस्थं ईशम्
ब्रह्माणम् च, सर्वान् ऋषीन्, दिव्यान् उरगान् च पश्यामि ।

शब्दार्थः
अर्जुन उवाच  = Arjuna said पश्यामि  = I see देवान्  = all the demigods तव  = Your देव  = O Lord देहे  = in the body सर्वान्  = all तथा  = also भूत  = living entities विशेषसङ्घान्  = specifically assembled ब्रह्माणं  = Lord Brahma ईशं  = Lord Siva कमलासनस्थं  = sitting on the lotus flower ऋषिन्  = great sages च  = also सर्वान्  = all उरगान्  = serpents च  = also दिव्यान्  = divine.

Meaning
11.15: Arjuna said: I see on your body an assembly of all gods, many kinds of living beings, Lord Brahma seated on a Lotus flower, Lord Siva (Isam), all Rishis, and divine snakes.