श्लोकः
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११-१७॥
सन्धि विग्रहः
किरीटिनम् गदिनम् चक्रिणम् च तेजो-राशिम् सर्वतः दीप्तिमन्तम् ।
पश्यामि त्वाम् दुर्निरीक्ष्यम् समन्तात् दीप्त-अनल-अर्क-द्युतिम् अप्रमेयम् ॥ ११-१७॥
श्लोकार्थः
त्वाम् किरीटिनम्, गदिनम्, चक्रिणम्, तेजो-राशिम्
सर्वतः दीप्तिमन्तम्, समन्तात् दीप्त-अनल-अर्क-द्युतिम्
अप्रमेयम् दुर्निरीक्ष्यम् च पश्यामि ।
शब्दार्थः
किरीटिनं = with helmets गदिनं = with maces चक्रिणं = with discs च = and तेजोराशिं = effulgence सर्वतः = on all sides दीप्तिमन्तं = glowing पश्यामि = I see त्वां = You दुर्निरीक्ष्यं = difficult to see समन्तात् = everywhere दीप्तानल = blazing fire अर्क = of the sun द्युतिं = the sunshine अप्रमेयं = immeasurable.
Meaning
11.17: I see You wearing the crown, holding the mace and the discus, glowing on all sides with a mass of light, and blazing like the burning fire and the sun. It is difficult to see You on every side because You are unfathomable.