श्लोकः
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ ११-१९॥
सन्धि विग्रहः
अनादि-मध्य-अन्तम् अनन्त-वीर्यम् अनन्त-बाहुम् शशि-सूर्य-नेत्रम् ।
पश्यामि त्वाम् दीप्त-हुताश-वक्त्रम् स्व-तेजसा विश्वम् इदम् तपन्तम् ॥ ११-१९॥
श्लोकार्थः
अनादि-मध्य-अन्तम्, अनन्त-वीर्यम्, अनन्त-बाहुम्,
शशि-सूर्य-नेत्रम्, दीप्त-हुताश-वक्त्रम्, स्व-तेजसा
इदम् विश्वम् तपन्तम्, त्वाम् पश्यामि ।
शब्दार्थः
अनादि = without beginning मध्य = middle अन्तं = or end अनन्त = unlimited वीर्यां = glories अनन्त = unlimited बाहुं = arms शशी = the moon सूर्य = and sun नेत्रं = eyes पश्यामि = I see त्वां = You दीप्त = blazing हुताशवक्त्रं = fire coming out of Your mouth स्वतेजसा = by Your radiance विश्वं = universe इदं = this तपन्तं = heating.
Meaning
11.19: I see You without beginning, middle, or end, with infinite power and many arms; having the sun and the moon as Your eyes, with blazing fire in Your mouth, whose radiance heats up this universe.