श्लोकः
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥

सन्धि विग्रहः
अमी हि त्वाम् सुर-सङ्घाः विशन्ति केचित् भीताः प्राञ्जलयः गृणन्ति ।
स्वस्ति इति उक्त्वा महर्षि-सिद्ध-सङ्घाः स्तुवन्ति त्वाम् स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥

श्लोकार्थः
अमी हि सुर-सङ्घाः त्वाम् विशन्ति, केचित् भीताः प्राञ्जलयः
गृणन्ति; महर्षि-सिद्ध-सङ्घाः स्वस्ति इति उक्त्वा पुष्कलाभिः
स्तुतिभिः त्वाम् स्तुवन्ति ।

शब्दार्थः
अमी  = all those हि  = certainly त्वां  = You सुरसङ्घाः  = groups of demigods विशन्ति  = are entering केचित्  = some of them भिताः  = out of fear प्राञ्जलयः  = with folded hands गृणन्ति  = are offering prayers स्वस्ति  = all peace इति  = thus उक्त्वा  = speaking महर्षि  = great sages सिद्धसङ्घाः  = perfect beings स्तुवन्ति  = are singing hymns त्वां  = unto You स्तुतिभिः  = with prayers पुष्कलाभिः  = Vedic hymns.

Meaning
11.21: The bevy of gods enters You; some extol thee in fear with folded hands. The confluence of great sages (Maha Rishis) and the perfected ones (Siddhas), to increase auspiciousness, praise Thee and sing richly beautiful hymns.