श्लोकः
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ११-२२॥

सन्धि विग्रहः
रुद्र-आदित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च उष्मपाः च ।
गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घाः वीक्षन्ते त्वाम् विस्मिताः च एव सर्वे ॥ ११-२२॥

श्लोकार्थः
रुद्र-आदित्याः, वसवः, ये च साध्याः, विश्वे अश्विनौ च,
मरुतः, उष्मपाः च, गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घाः
च सर्वे विस्मिताः एव त्वाम् वीक्षन्ते ।

शब्दार्थः
रुद्र  = manifestations of Lord Siva आदित्यः  = the Adityas वसवः  = the Vasus ये  = all those च  = and साध्याः  = the Sadhyas विश्वे  = the Visvedevas अश्विनौ  = the Asvini-kumaras मरुतः  = the Maruts च  = and उष्मपाः  = the forefathers च  = and गन्धर्व  = of the Gandharvas यक्ष  = the Yaksas असुर  = the demons सिद्ध  = and the perfected demigods सङ्घाः  = the assemblies वीक्षन्ते  = are beholding त्वां  = You विस्मिताः  = in wonder च  = also एव  = certainly सर्वे  = all.

Meaning
11.22: Rudras, Adityas, Vasus, Sādhyās, Visvedevas, Ashvins, Maruts, Ushmapas, Ghandarvas, Yakshas, Asuras, and Siddhas gaze at you in amazement.