श्लोकः
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ ११-२३॥
सन्धि विग्रहः
रूपम् महत् ते बहु-वक्त्र-नेत्रम् महा-बाहो बहु-बाहु-ऊरु-पादम् ।
बहु-उदरम् बहु-दंष्ट्रा-करालम् दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ॥ ११-२३॥
श्लोकार्थः
हे महा-बाहो! बहु-वक्त्र-नेत्रम्, बहु-बाहु-ऊरु-पादम्,
बहु-उदरम्, बहु-दंष्ट्रा-करालम् ते महत् रूपम् दृष्ट्वा
लोकाः प्रव्यथिताः, तथा अहम् (अपि व्यथितः अस्मि)।
शब्दार्थः
रूपं = the form महत् = very great ते = of You बहु = many वक्त्र = faces नेत्रं = and eyes महाबाहो = O mighty-armed one बहु = many बाहु = arms उरु = thighs पादं = and legs बहूदरं = many bellies बहुदंष्ट्रा = many teeth करालं = horrible दृष्ट्वा = seeing लोकाः = all the planets प्रव्यथिताः = perturbed तथा = similarly अहं = I.
Meaning
11.23: O Mahā-Bāho, Mighty-armed One, on seeing your great form with many mouths, eyes, many arms, thighs and legs, many stomachs, many formidable teeth, the worlds shake in fear; and so do I.