श्लोकः
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ ११-२४॥

सन्धि विग्रहः
नभः-स्पृशम् दीप्तम् अनेक-वर्णम् व्यात्त-आननम् दीप्त-विशाल-नेत्रम् ।
दृष्ट्वा हि त्वाम् प्रव्यथित-अन्तर-आत्मा धृतिम् न विन्दामि शमम् च विष्णो ॥ ११-२४॥

श्लोकार्थः
हे विष्णो! त्वाम् नभः-स्पृशम्, दीप्तम्, अनेक-वर्णम्,
व्यात्त-आननम्, दीप्त-विशाल-नेत्रम्, दृष्ट्वा हि (अहं)
प्रव्यथित-अन्तर-आत्मा (भूत्वा) धृतिम् शमम् च न विन्दामि ।

शब्दार्थः
नभःस्पृशं  = touching the sky दीप्तं  = glowing अनेक  = many वर्णं  = colors व्यत्त  = open आननं  = mouths दीप्त  = glowing विशाल  = very great नेत्रं  = eyes दृष्ट्वा  = seeing हि  = certainly त्वां  = You प्रव्यथित  = perturbed अन्तः  = within आत्मा  = soul धृतिं  = steadiness न  = not विन्दामि  = I have शमं  = mental tranquillity च  = also विष्णो  = O Lord Visnu.

Meaning
11.24: On seeing, You glow in many colors and touch the sky with wide-open mouth and large lustrous eyes, my soul deep inside shakes in fear. I find neither support nor tranquility, O Vishnu.