श्लोकः
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ ११-२५॥

सन्धि विग्रहः
दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वा एव काल-अनल-सन्निभानि ।
दिशः न जाने न लभे च शर्म प्रसीद देवेश जगत्-निवास ॥ ११-२५॥

श्लोकार्थः
हे देवेश! हे जगत्-निवास! काल-अनल-सन्निभानि
दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वा एव (अहं) दिशः
न जाने, शर्म च न लभे, (अतः त्वं) प्रसीद ।

शब्दार्थः
दंष्ट्रा  = teeth करालानि  = terrible च  = also ते  = Your मुखानि  = faces दृष्ट्वा  = seeing एव  = thus कालानल  = the fire of death सन्निभानि  = as if दिशः  = the directions न  = not जाने  = I know न  = not लभे  = I obtain च  = and शर्म  = grace प्रसीद  = be pleased देवेश  = O Lord of all lords जगन्निवास  = O refuge of the worlds.

Meaning
11.25: On seeing your formidable teeth, your faces, the Time’s (all-consuming) fires, I know not my sense of direction and find no comfort. Give me grace, O Lord of Gods and the Refuge of the Universe.