श्लोकः
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ ११-२८॥

सन्धि विग्रहः
यथा नदीनाम् बहवः अम्बु-वेगाः समुद्रम् एव अभिमुखाः द्रवन्ति ।
तथा तव अमी नर-लोक-वीराः विशन्ति वक्त्राणि अभिविज्वलन्ति ॥ ११-२८॥

श्लोकार्थः
यथा नदीनाम् बहवः अम्बु-वेगाः अभिमुखाः समुद्रम्
एव द्रवन्ति, तथा अमी नर-लोक-वीराः तव अभिविज्वलन्ति वक्त्राणि विशन्ति ।

शब्दार्थः
यथा  = as नदीनां  = of the rivers बहवः  = the many अम्बुवेगाः  = waves of the waters समुद्रं  = the ocean एव  = certainly अभिमुखाः  = towards द्रवन्ति  = glide तथा  = similarly तव  = Your अमी  = all these नरलोकवीराः  = kings of human society विशन्ति  = are entering वक्त्राणि  = the mouths अभिविज्वलन्ति  = and are blazing.

Meaning
11.28: As many (swift) currents of rivers rush towards the ocean, so are the brave men of this world entering Your flaming mouths.