श्लोकः
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास-् तवापि वक्त्राणि समृद्धवेगाः ॥ ११-२९॥

सन्धि विग्रहः
यथा प्रदीप्तम् ज्वलनम् पतङ्गाः विशन्ति नाशाय समृद्ध-वेगाः ।
तथा एव नाशाय विशन्ति लोकाः तव अपि वक्त्राणि समृद्ध-वेगाः ॥ ११-२९॥

श्लोकार्थः
यथा पतङ्गाः समृद्ध-वेगाः नाशाय प्रदीप्तम् ज्वलनम्
विशन्ति, तथा एव लोकाः समृद्ध-वेगाः नाशाय तव अपि वक्त्राणि विशन्ति ।

शब्दार्थः
यथा  = as प्रदीप्तं  = blazing ज्वलनं  = a fire पतङ्गाः  = moths विशन्ति  = enter नाशाय  = for destruction समृद्ध  = with full वेगाः  = speed तथैव  = similarly नाशाय  = for destruction विशन्ति  = are entering लोकाः  = all people तव  = Your अपि  = also वक्त्राणि  = mouths समृद्धवेगः  = with full speed.

Meaning
11.29: Moths enter a blazing fire at full speed for destruction, and similarly, all people enter your mouths at full speed for their destruction.