श्लोकः
श्रीभगवानुवाच ।
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३२॥

सन्धि विग्रहः
कालः अस्मि लोक-क्षय-कृत् प्रवृद्धः लोकान् समाहर्तुम् इह प्रवृत्तः ।
ऋते अपि त्वाम् न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३२॥

श्लोकार्थः
(अहं) लोक-क्षय-कृत् प्रवृद्धः कालः अस्मि, इह लोकान्
समाहर्तुम् प्रवृत्तः (अस्मि), त्वाम् ऋते अपि प्रत्यनीकेषु
ये योधाः अवस्थिताः, (ते) सर्वे न भविष्यन्ति ।

शब्दार्थः
श्रीभगवानुवाच  = the Personality of Godhead said कालः  = time अस्मि  = I am लोक  = of the worlds क्षयकृत्  = the destroyer प्रवृद्धः  = great लोकान्  = all people समाहर्तुं  = in destroying इह  = in this world प्रवृत्तः  = engaged ऋते  = without, except for अपि  = even त्वां  = you न  = never भविष्यन्ति  = will be सर्वे  = all ये  = who अवस्थिताः  = situated प्रत्यानीकेषु  = on the opposite sides योधाः  = the soldiers.

Meaning
11.32: Sri Bhagavan said: I am Time, the great destroyer of the world and the people. Even without your active engagement or participation, all these warriors in the opposing armies will cease to exist.