श्लोकः
सञ्जय उवाच ।
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ११-३५॥
सन्धि विग्रहः
एतत् श्रुत्वा वचनम् केशवस्य कृत-अञ्जलिः वेपमानः किरीटी ।
नमस्कृत्वा भूयः एव आह कृष्णम् सगद्गदम् भीत-भीतः प्रणम्य ॥ ११-३५॥
श्लोकार्थः
केशवस्य एतत् वचनम् श्रुत्वा, वेपमानः किरीटी
कृत-अञ्जलिः कृष्णम् नमः कृत्वा, भीत-भीतः प्रणम्य
(च) भूयः एव सगद्गदम् आह ।
शब्दार्थः
सञ्जय उवाच = Sanjaya said एतत् = thus श्रुत्वा = hearing वचनं = the speech केशवस्य = of KRiShNa कृताञ्जलिः = with folded hands वेपमानः = trembling किरीटिन् = Arjuna नमस्कृत्वा = offering obeisances भूयः = again एव = also अह = said कृष्णं = unto KRiShNa सगद्गदं = with a faltering voice भीतभीतः = fearful प्रणम्य = offering obeisances.
Meaning
11.35: Sanjaya said: Thus hearing the words of Krishna (Kesava), Arjuna bowed down to Krishna and spoke with folded hands, trembling, stammering, and fearful artículo completo.