श्लोकः
अर्जुन उवाच ।
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११-३६॥

सन्धि विग्रहः
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च ।
रक्षांसि भीतानि दिशः द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥ ११-३६॥

श्लोकार्थः
हे हृषीकेश! स्थाने, तव प्रकीर्त्या जगत् प्रहृष्यति,
अनुरज्यते च, भीतानि रक्षांसि दिशः द्रवन्ति, सर्वे च
सिद्ध-सङ्घाः नमस्यन्ति ।

शब्दार्थः
अर्जुन उवाच  = Arjuna said स्थाने  = rightly हृषीकेश  = O master of all senses तव  = Your प्रकीर्त्य  = by the glories जगत्  = the entire world प्रहृष्यति  = is rejoicing अनुरज्यते  = is becoming attached च  = and रक्षांसि  = the demons भीतानि  = out of fear दिशः  = in all directions द्रवन्ति  = are fleeing सर्वे  = all नमस्यन्ति  = are offering respects च  = also सिद्धसङ्घाः  = the perfect human beings.

Meaning
11.36: Arjuna said: O Hrisikesa (Krishna), rightly, by glorifying You, the world rejoices and delights. The raksasas, out of fear are fleeing in all directions page. The confluence of Siddhas bows down to you in reverence.