श्लोकः
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३९॥

सन्धि विग्रहः
वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः त्वम् प्रपितामहः च ।
नमः नमः ते अस्तु सहस्र-कृत्वः पुनः च भूयः अपि नमः नमः ते ॥ ११-३९॥

श्लोकार्थः
त्वम् वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः च
प्रपितामहः (असि) ते सहस्र-कृत्वः, नमः नमः,
पुनः च भूयः अपि ते नमः नमः अस्तु ।

शब्दार्थः
वायुः  = air यमः  = the controller अग्निः  = fire वरुणः  = water शशाङ्कः  = the moon प्रजापतिः  = Brahma त्वं  = You प्रपितामहः  = the great-grandfather च  = also नमः  = my respects नमः  = again my respects ते  = unto You अस्तु  = let there be सहस्रकृत्वः  = a thousand times पुनश्च  = and again भूयः  = again अपि  = also नमः  = offering my respects नमस्ते  = offering my respects unto You.

Meaning
11.39: You are Vayu, air; Yama, death or destroyer; Agni, fire; Varuna, water; Sasānka, moon; Prajapati, Brahma; and the great-grandfather rankhaya.com. Homage to You a thousand times. Again and again, homage to You.