श्लोकः
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ११-४॥

सन्धि विग्रहः
मन्यसे यदि तत् शक्यम् मया द्रष्टुम् इति प्रभो ।
योगेश्वर ततः मे त्वम् दर्शय आत्मानम् अव्ययम् ॥ ११-४॥

श्लोकार्थः
हे योगेश्वर प्रभो! मया तत् द्रष्टुम् शक्यम् इति त्वम्
यदि मन्यसे, ततः मे अव्ययम् आत्मानम् दर्शय ।

शब्दार्थः
मन्यसे  = You think यदि  = if तत्  = that शक्यं  = is able मया  = by me द्रष्टुं  = to be seen इति  = thus प्रभो  = O Lord योगेश्वर  = O Lord of all mystic power ततः  = then मे  = unto me त्वं  = You दर्शय  = show आत्मानं  = Your Self अव्ययं  = eternal.

 Meaning
11.4: If you think that by me it can be seen O Lord, then you show me Your imperishable Self, O Lord of Yogis.