श्लोकः
श्रीभगवानुवाच ।
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११-५॥

सन्धि विग्रहः
पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः ।
नाना-विधानि दिव्यानि नाना-वर्ण-आकृतीनि च ॥ ११-५॥

श्लोकार्थः
हे पार्थ! मे नाना-विधानि, नाना-वर्ण-आकृतीनि, दिव्यानि च
शतशः अथ सहस्रशः रूपाणि पश्य ।

शब्दार्थः
श्रीभगवानुवाच  = the Supreme Personality of Godhead said पश्य  = just see मे  = My पार्थ  = O son of Pritha रूपाणि  = forms शतशः  = hundreds अथ  = also सहस्रशः  = thousands नानाविधानि  = variegated दिव्यानि  = divine नाना  = variegated वर्ण  = colors आकृतीनि  = forms च  = also.

Meaning
1 1.5: Sri Bhagavan said: O Partha, see My forms by the hundreds, also by the thousands: divine, many kinds, many colors and forms too.