श्लोकः
न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।२-२०।।

सन्धि विग्रहः
न जायते म्रियते वा कदाचित् न अयम् भूत्वा अभविता वा न भूयः।
अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे।।२-२०।।

श्लोकार्थः
अयम् कदाचित् न जायते, न वा म्रियते, (अयम्) भूत्वा भूयः
अभविता वा न। अयम् अजः नित्यः शाश्वतः पुराणः, शरीरे
हन्यमाने न हन्यते।

शब्दार्थः
2.20 न=never जायते=takes birth म्रियते=dies वा=either कदाचित्=at any time (past, present or future)न=never अयम्=this भूत्वा=having come into being भविता=will come to be वा=or न=nor भूयः=or is again coming to be अजः=unborn नित्यः=eternal शाश्वतः=permanent अयम्=this पुराणः=the oldest न=neverहन्यते=is killed हन्यमाने=being killed शरीरे=the body

Meaning
2.20: This (atman or soul) is neither born, nor dead, nor coming to be, nor will it cease to be at any time. This atman is unborn, eternal, timeless, everlasting, and primeval; it is not killed when the body is slain.