श्लोकः
वेदाविनाशिनं नित्यं य एनमजमव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्।।२-२१।।

सन्धि विग्रहः
वेद अविनाशिनम् नित्यम् यः एनम् अजम् अव्ययम्।
कथम् सः पुरुषः पार्थ कम् घातयति हन्ति कम्।।२-२१।।

श्लोकार्थः
हे पार्थ! यः एनम् अविनाशिनम् नित्यम् अजम् अव्ययम् वेद,
सः पुरुषः कथम् कम् घातयति, कम् हन्ति?

शब्दार्थः
2.21 वेद=knows अविनाशिनम्=indestructible नित्यम्=always existing यः=one who एनम्=this (soul)अजम्=unborn अव्ययम्=immutable कथम्=how सः=that पुरुषः=person पार्थ=O Partha (Arjuna) कम्=whomघातयति=causes to hurt हन्ति=kills कम्=whom

Meaning
2.21: How can a human being, who knows that this Soul is indestructible, eternal, immutable, and unborn, O Partha (Arjuna), think that he could kill or cause anyone to kill?