श्लोकः
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।२-२३।।

सन्धि विग्रहः
न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः।
न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः।।२-२३।।

श्लोकार्थः
एनम् शस्त्राणि न छिन्दन्ति, एनम् पावकः न दहति
एनम् आपः न क्लेदयन्ति, (एनम्) च मारुतः न शोषयति।

शब्दार्थः
2.23 न=never एनम्=this soul छिन्दन्ति=can cut to pieces शस्त्राणि=weapons न=never एनम्=this soul दहति=burns पावकः=fire न=never च=also एनम्=this soul क्लेदयन्ति=moistens आपः=water न=never शोषयति=dries मारुतः=wind

Meaning
2.23: The weapons cannot cut the self, the fire cannot burn it, the water cannot wet it, and the wind cannot dry it.